|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.85. अध्यायः 085
Mahabharata - Bhishma Parva - Chapter Topics
संकुलयुद्धवर्णनम् ॥ 1 ॥
Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-85-0x(4164)(42475)
स ताड्यमानस्तु शरैर्धनंजयः
पदाहतो नाग इव श्वसन्बली ।
बाणांश्च बाणेन महारथानां
चिच्छेद चापानि रणे प्रसह्य ॥ 6-85-1(42476)
संछिद्य चापानि च तानि राज्ञां
तेषां रणे वीर्यवतां क्षणेन।
विव्याध बाणैर्युगपन्महात्मा
निःशेषतां तेष्वथ मन्यमानः ॥ 6-85-2(42477)
निपेतुराजौ रुधिरप्रदिग्धा-
स्ते ताडिताः शक्रसुतेन राजन्।
विभिन्नगात्राः पतितोत्तमाङ्गा
गतासवश्छिन्नतनुक्रकायाः ॥ 6-85-3(42478)
महीं गताः पर्थबलाभिभूता
विचित्ररूपा युगपद्विनेशुः।
दृष्ट्वा हतांस्तान्युधि राजपुत्रां-
स्त्रिगर्तराजः प्रययौ रथेन ॥ 6-85-4(42479)
तेषां रथानामथ पृष्ठगोपा
द्वात्रिंशदन्येऽभ्यपतन्त पार्थम्।
तथैव ते तं परिवार्य पार्थं
विकृष्य चापानि महारवाणि ॥ 6-85-5(42480)
अवीवृषन्बाणमहौघवृष्ट्या
यथा गिरिं तोयधरा जलौघैः।
संपीड्यमानस्तु शरौघवृष्ट्या
धनंजयस्तान्युधि जातरोषः ॥ 6-85-6(42481)
षष्ट्या शरैः संयति तैलधौतै-
र्जघान तानप्यथ पृष्ठगोपान्।
रथांश्च तांस्तनवजित्य सङ्ख्ये
धनञ्जयः प्रीतमना यशस्वी॥ 6-85-7(42482)
अथात्वरद्भीष्मवधाय जिष्णु-
र्बलानि राजन्समरे निहत्य।
त्रिगर्तराजो निहतान्समीक्ष्य
महात्मना तानथ बन्धुवर्गान् ॥ 6-85-8(42483)
रणे पुरस्कृत्य नराधिपांस्तान्
जगाम पार्थं त्वरितो वधाय
अभिद्रुतं चास्त्रभृतां वरिष्ठं
धनंजयं वीक्ष्य शिखण्डिमुख्याः ॥ 6-85-9(42484)
अभ्यद्ययुस्ते शितशस्त्रहस्ता
रिरक्षिषन्तो रथमर्जुनस्य।
पार्थोऽपि तानापततः समीक्ष्य
त्रिगर्तराज्ञा सहितान्नृवीरान ॥ 6-85-10(42485)
विध्वंसयित्वा समरे धनुष्मान्
गाण्डीवमुक्तैर्निशितैः पृषत्कैः ।
भीष्मं यियासुर्युधि संददर्श
दुर्योधनं सैन्धवादींश्च राज्ञः ॥ 6-85-11(42486)
संवारयिष्णूनभिवारयित्वा
मुहूर्तमायोध्य बलेन वीरः।
उत्सृज्य राजानमनन्तवीर्यो
जयद्रथादींश्च नृपान्महौजाः।
ययौ ततो भीमबलो मनस्वी
गाङ्गेयमाजौ शरचापपाणिः ॥ 6-85-12(42487)
भीष्मोऽपि दृष्ट्वा समरे कृतास्त्रान्
स पाण्डवानां रथिनोऽभ्युदारान्।
विहाय संग्राममुखे धनंजयं
जवेन पार्थं पुनराजगाम॥ 6-85-13(42488)
युधिष्ठिरश्च प्रबलो महात्मा
समाययौ त्वरितो जातकोपः।
मद्राधिपं समभित्यज्य सङ्ख्ये
स्वभागमाप्तं तमनन्तकीर्तिः।
सार्धं स माद्रीसुतभीमसेनै-
र्भीष्मं ययौ शान्तनवं रणाय ॥ 6-85-14(42489)
तैः संप्रयुक्तैः स महारथाग्र्यै-
र्गङ्गासुतः समरे चित्रयोधी।
न विव्यधे शान्तनवो महात्मा
समागतैः पाण्डुसुतैः समस्तैः ॥ 6-85-15(42490)
अथैत्य राजा युधि सत्यसन्धो
जयद्रथोऽत्युग्रबलो मनस्वी।
चिच्छेद चापानि महारथानां
प्रसह्य तेषां धनुषा वरेण ॥ 6-85-16(42491)
युधिष्ठिरं भीमसेनं यमौ च
पार्थं कृष्णं युधि संजातकोपः ।
दुर्योदनः क्रोधविषो महात्मा
जघान बाणैरनलप्रकाशैः ॥ 6-85-17(42492)
कृपेण शल्येन शलेन चैव
तथा विभो चित्रसेनेन चौजौ।
विद्धाः शरैस्तेऽतिविवृद्धकोपै-
र्देवा यथा दैत्यगणैः समेतैः ॥ 6-85-18(42493)
छिन्नायुधं शान्तनवेन राजा
शिखण्डिनं प्रेक्ष्य च जातकोपः।
अजातशत्रुः समरे महात्मा
शिखण्डिनं क्रुद्ध उवाच वाक्यम् ॥ 6-85-19(42494)
उक्त्वा तथा त्वं पितुरग्रतो मा-
महं हनिष्यामि महाव्रतं तम्।
भीष्मं शरौघैर्विमलार्कवर्णैः
सत्यं वदामीति कृता प्रतिज्ञा ॥ 6-85-20(42495)
त्वया च नैनां सफलां करोषि
देवव्रतं यन्न निहंसि युद्धे।
मिथ्याप्रतिज्ञो भव मात्र वीर
रक्षस्व धर्मं स्वकुलं यशश्च॥ 6-85-21(42496)
प्रेक्षस्व भीष्मं युधि भीमवेगं
सर्वांस्तपन्तं मम सैन्यसङ्घान्।
शरौघजालैरतितिग्मवेगैः
कालं यथा कालकृतं क्षणेन ॥ 6-85-22(42497)
निकृत्तचापः समरेऽनपेक्षः
पराजितः शान्तनवेन चाजौ ।
विहाय बन्धूनथ सदरांश्च
क्व यास्यसे नानुरूपं तवेदम् ॥ 6-85-23(42498)
दृष्ट्वा हि भीष्मं तमनन्तवीर्यं
भग्नं च सैन्यं द्रवमाणमेवम् ।
भीतोऽसि नूनं द्रुपदस्य पुत्र
तथा हि ते मुखवर्णोऽप्रहृष्टः ॥ 6-85-24(42499)
अज्ञायमाने च धनंजये तु
महाहावे संप्रसक्ते नृवीरे।
कथं हि भीष्मात्प्रथितः पृथिव्यां
भयं त्वमद्य प्रकरोषि वीर ॥ 6-85-25(42500)
स धर्मराजस्य वचो निशम्य 6-85-26bरूक्षाक्षरं विप्रलापानुबद्धम् ।
प्रत्यादेशं मन्यमानो महात्मा
प्रतत्वरे भीष्मवधाय राजन् ॥ 6-85-26(42501)
तमापतन्तं महता जवेन
शिखण्डिनं भीष्ममभिद्रवन्तम्।
निवारयामास हि शल्य एन-
मस्त्रेण घोरेण सुदुर्जयेन ॥ 6-85-27(42502)
स चापि दृष्ट्वा समुदीर्यमाण-
मस्त्रं युगान्ताग्निसमप्रकाशम्।
न संमुमोह द्रुपदस्य पुत्रो
राजन्महेन्द्रप्रतिमप्रभावः ।
तस्थौ च तत्रैव महाधनुष्मान्
शरैस्तदस्त्रं प्रतिबाधमानः ॥ 6-85-28(42503)
अथाददे वारुणमन्यदस्त्रं
शिखण्ड्यथोऽग्रं प्रतिघातमस्य।
तदस्त्रमस्त्रेण विदार्यमाणं
खस्थाः सुरा ददृशुः पार्थिवाश्च ॥ 6-85-29(42504)
भीष्मस्तु राजन्समरे महात्मा
धनुश्च चित्रं ध्वजमेव चापि।
छित्त्वाऽनदत्पाण्डुसुतस्य वीरो
युधिष्ठिरस्याजमीढस्य राज्ञः ॥ 6-85-30(42505)
ततः समुत्सृज्य धनुः सबाणं
युधिष्ठिरं वीक्ष्य भयाभिभूतम्।
गदां प्रगृह्याभिपपात सङ्ख्ये
जयद्रथं भीमसेनः पदातिः ॥ 6-85-31(42506)
तमापतन्तं सहसा जवेन
जयद्रथः सगदं भीमसेनम्।
विव्याध घोरैर्यमदण्डकल्पैः
शितैः शरैः पञ्चशरैः समन्तात् ॥ 6-85-32(42507)
अचिन्तयित्वा स शरांस्तरस्वी
वृकोदरः क्रोधपरीतचेताः ।
जघान वाहान्समरे समन्तात्
सुसंमतान्सिन्धुराजस्य सङ्ख्ये ॥ 6-85-33(42508)
ततोऽभिवीक्ष्याप्रतिमप्रभाव-
स्तवात्मजस्त्वरमाणो रथेन
अभ्यायौ भीमसेनं निहन्तुं
समुद्यतास्त्रः सुरराजकल्पः ॥ 6-85-34(42509)
जयद्रथो भग्रवाहं रथं त
त्यक्त्वा ययौ यत्र राजा कुरूणाम् ।
भयेन भीमस्य समूढचेताः
ससौबलस्तत्र युद्धस्य भीतः ॥ 6-85-35(42510)
भीमोऽप्यथैनं सहसा विनद्य
प्रत्युद्ययौ गदया तर्जयानः।
समुद्यतां तां यमदण्डकल्पां
दृष्ट्वा गदां ते कुरवः समन्तात् ॥ 6-85-36(42511)
विहाय सर्वे तव पुत्रमुग्नं 6-85-37(42512)
पातं गदायाः परिहर्तुकामाः।
अपक्रान्तास्तुमुले संप्रमर्दे
सुदूरुणे भारत मोहनीये ॥ 6-85-37(42513)
अमूढचेतास्त्वथ चित्रसेनो
महागदामापतन्तीं निरीक्ष्य।
रथं समुत्सृज्य पदातिराजौ
प्रगृह्य खङ्गं विपुलं च चर्म।
अवप्लुतः सिंह उवाचलाग्रा-
ज्जगामान्यं भ्रमप भूमिदेशम् ॥ 6-85-38(42514)
गदापि सा प्राप्य रथं सुचित्रं
साश्व ससूतं विनिहत्य सङ्ख्ये।
जगाम भूमिं ज्वलिता महोल्क
भ्रष्टाऽम्बराद्गामिव संपतन्ती ॥ 6-85-39(42515)
आश्चर्यभूतं सुमहत्त्वदीया
दृष्ट्वैव तद्भारत संप्रहृष्टाः।
सर्वे विनेदुः सहिताः समन्ता-
त्पुपूजिरे तव पुत्रस्य शौर्यम् ॥ ॥ 6-85-40(42516)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे पञ्चाशीतितमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-85-25 अज्ञायमाने पश्चात्स्थिते ॥ 6-85-26 प्रत्यादेशं भर्त्सनं ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|